अ॒हं शुष्ण᳚स्य॒ श्नथि᳚ता॒ वध᳚र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य᳚वे ॥
पदपाठः (Word-by-word)
अ॒हम् । शुष्ण᳚स्य । श्नथि᳚ता । वधः᳚ । य॒म॒म् । न । यः । र॒रे । आर्य᳚म् । नाम᳚ । दस्य᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
अहमिन्द्रोऽत्कमाच्छादकं शत्रुपुत्रं कवय उशसन ऋषये तस्य सुखार्थं हथैर्बहुप्रकारैः प्रहारैस्तत्साधनैरायुधैर्वा शिश्नथम् । ताइतवानस्मि। श्नथतिर्वधकर्मा। किञ्चाहं कुत्समेतन्नामकमृषिमाभिरूतिभिर्वधादिरूपैः। कुत्साय शुष्ण मशुषं नि बर्हीः। ऋ. ४-१६-१२। इत्यादि मन्त्रान्तरम्। रक्षणैरावम् । अरक्षम् । पूर्वमेव कृतान्यपि रक्षणानीदानीमिव कृतानीत्यनुवदति। कुत्सार्थं शुष्णस्यैतन्नामकस्यासुरस्य श्नथिता हिंसिता। तस्य हननायेत्यर्थः। वधर्वज्रं यमम् । प्रहरणाय नियमितवानस्मि। अपि चाहमार्यमार्यसम्बन्धि। आर्यानां देयमित्यर्थः। तादृशं नाम। उदकनामैतत्। नामकमुदकं दस्यवे शत्रव उपक्षपयित्रे न ररे। न दत्तवानस्मि। यद्वा। आर्यं पूज्यमित्यसाधारनं नाम दस्यवे न दत्तवानस्मि। अत्रेन्द्रस्यात्मस्तुतौ कुत्सरक्शणशुष्णवाधादिकं आवः कुत्समिन्द्रयस्मिञ्चाकन्। ऋ. १-३३-१४। शुष्णं पिप्रुं कुयवं व्रुत्रमिन्द्र। ऋ. १-१०३-८। इत्यादिषु बहुधा प्रापञ्चितम्। अतोऽत्र ग्रन्थविस्तरभयान्न लिख्यते॥३॥