श्रवणम्

10.49.8
अ॒हं स᳚प्त॒हा नहु᳚षो॒ नहु᳚ष्टर॒ः प्राश्रा᳚वयं॒ शव᳚सा तु॒र्वशं॒ यदु᳚म् ।
अ॒हं न्य१॒᳚न्यं सह᳚सा॒ सह᳚स्करं॒ नव॒ व्राध᳚तो नव॒तिं च᳚ वक्षयम् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । स॒प्त॒॑हा । नहु᳚षः । नहुः᳚॑तरः । प्र । अ॒श्र॒व॒य॒म् । शव᳚सा । तु॒र्वश᳚म् । यदु᳚म् ।
अ॒हम् । नि । अ॒न्यम् । सह᳚सा । सहः᳚ । क॒र॒म् । नव᳚ । व्राध᳚तः । न॒व॒तिम् । च॒ । व॒क्ष॒य॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं सप्तसङ्ख्याकानां पुरां शत्रूणां वा हन्ता। सप्त यत्पुरः शर्म शारदीः। ऋ. १-१७४-२। इत्युक्तम्। यद्वा। सप्त नमुच्यादीन् हतवान्। किञ्च नहुषो बन्धकस्यापि नहुष्टरो बन्धकतरोऽहं शवसा बलेन तुर्वशं यदुं च प्राश्रावयम्। शत्रुसम्बन्धिगवादिप्रदानेन श्रावितवानस्मि। तौ यथा लोके श्रुतौ भवतः तथाकार्षमित्यर्थः। किञ्चाहमन्यं चास्मत्स्तोतारं सहसा बलेन सहो बलिनं करम् । अकार्षम्। करोतेर्लुङे कृमृदृरुहीति च्लेरङ्। आभाव आर्षः। किञ्च नव नवसङ्ख्याका नवतिं च नवतिस~ख्याकाश्च। नवोत्तरनवतिमित्यर्थः। कथं भूताः। व्राधतो वर्धमानाः। वक्षयम् । अवहम् । व्यनाशयमित्यर्थः॥८॥