श्रवणम्

10.26.8
आ ते॒ रथ᳚स्य पूषन्न॒जा धुरं᳚ ववृत्युः ।
विश्व᳚स्या॒र्थिन॒ः सखा᳚ सनो॒जा अन᳚पच्युतः ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । रथ᳚स्य । पू॒ष॒न् । अ॒जाः । धुर᳚म् । व॒वृ॒त्युः॒ ।
विश्व᳚स्य । अ॒र्थिनः᳚ । सखा᳚ । स॒नः॒॑जाः । अन᳚प॑च्युतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पूषन् देव ते त्वदीयस्य रथस्य धुरं अजावाहनत्वेन आववृत्युः आवर्त्ययन्ति आव- हन्तीत्यर्थः । यस्त्वं विश्वस्य सर्वस्यार्थिनोयाचकस्य अभिलषितार्थप्रदातृत्वात् सखा सखि- भूतः सनोजाः चिरजातः अनपच्युतः स्वाधिकारादनपगतः तस्य ते रथमिति संबंधः ॥ ८ ॥