श्रवणम्

10.26.7
इ॒नो वाजा᳚नां॒ पति᳚रि॒नः पु᳚ष्टी॒नां सखा᳚ ।
प्र श्मश्रु᳚ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो अदा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
इ॒नः । वाजा᳚नाम् । पतिः᳚ । इ॒नः । पु॒ष्टी॒नाम् । सखा᳚ ।
प्र । श्मश्रु᳚ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा᳚ । यः । अदा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इनईश्वरः पूषा वाजानां हविरादीनां सर्वेषामन्नानां पतिः स्वामी इनः प्रभुः पुष्टीनां सर्वेषां प्राणिनां स्वभूतानां पोषकाणां करणे सखा मित्रभूतः सर्वस्योपकारित्वात् । किञ्च हर्यताः कामयमानस्य यजमानस्य स्वभूतं सोमं पिबन्निति शेषः । श्मश्रु श्मश्रुणि वृथा अनायासेन प्रयत्नेन प्रविदूधोत् प्रकर्षेण विविधं कंपयति । यः पूषा अदाभ्यः शत्रुभिरहिं- स्यः सइति पूर्वेण संबंधः ॥ ७ ॥