श्रवणम्

10.26.6
आ॒धीष᳚माणाया॒ः पति᳚ः शु॒चाया᳚श्च शु॒चस्य᳚ च ।
वा॒सो॒वा॒यो॑वी᳚ना॒मा वासां᳚सि॒ मर्मृ᳚जत् ॥
▶ पदपाठः (Word-by-word)
आ॒॑धीष᳚माणायाः । पतिः᳚ । शु॒चायाः᳚ । च॒ । शु॒चस्य᳚ । च॒ ।
वा॒सः॒॑वा॒यः । अवी᳚नाम् । आ । वासां᳚सि । मर्मृ᳚जत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आधीषमाणायाआत्मार्थं धीयमानायाः शुचायाश्च दीप्तायाः अजायाश्च पतिः स्वामी न केवलं स्त्रीमात्रस्य किंतु शुचस्य दीप्तस्य पुंपशोश्च पतिरित्यर्थः एवंभूतः पूषा देवः अवीनामूरणानां संबंधिरोमभिः वासोवायः दशापवित्रादीनि वस्त्राणि प्रेरयन् वासांसि रजकशोध्यानि तानि वस्त्राणि आमर्मृजत् आसमंतात्प्रकाशोष्णाभ्यां शोधयन् भवति ॥ ६ ॥