श्रवणम्

10.14.2 समानपद
य॒मो नो᳚ गा॒तुं प्र᳚थ॒मो वि᳚वेद॒ नैषा गव्यू᳚ति॒रप᳚भर्त॒वा उ᳚ ।
यत्रा᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ परे॒युरे॒ना ज᳚ज्ञा॒नाः प॒थ्या॒३॒᳚ अनु॒ स्वाः ॥
▶ पदपाठः (Word-by-word)
य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू᳚तिः । अप᳚॑भ॒र्त॒वै । ऊं॒ इति᳚ ।
यत्र᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒रा॒॑ई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः᳚ । अनु᳚ । स्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमः सर्वेषां मुख्योयमः नोस्माकं प्रजानां गातुं शुभाशुभनिमित्तं विवेद जानाति । एषा गव्यूतिः नापभर्तवा उ अतिशयज्ञानयोगाद्यमस्य एषा गव्यूतिः अयं मार्गं नकेनचिद पह त्रुमपनेतुं शक्यतइत्यर्थः । यत्र यस्मिन्मार्गेनोस्माकं पूर्वे पितरः परेयुः एनानेन मार्गे ण गच्छन्तः जज्ञानाः जाताः सर्वे स्वाः स्वभूताः पथ्याः स्तकर्ममार्गभूतागतीः अनुगच्छ न्ति ॥ २ ॥