श्रवणम्

10.14.9
अपे᳚त॒ वी᳚त॒ वि च᳚ सर्प॒तातो॒॑स्मा ए॒तं पि॒तरो᳚ लो॒कम᳚क्रन् ।
अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य᳚क्तं य॒मो द᳚दात्यव॒सान᳚मस्मै ॥
▶ पदपाठः (Word-by-word)
अप᳚ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः᳚ । अ॒स्मै । ए॒तम् । पि॒तरः᳚ । लो॒कम् । अ॒क्र॒न् ।
अहः᳚॑भिः । अ॒त्॑भिः । अ॒क्तु॑भिः᳚ । वि॑अ᳚क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒॑सान᳚म् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्मशाने पूर्वं स्थिताः हे पिशाचादयः अतोस्मात् मृतयजमानदहनस्थानात् अपेत अप गच्छत विशेषेणगच्छत विसर्पत च इदं स्थानं परित्यज्य नानाभावेन दूरतरं देशं गच्छ तेत्यर्थः । पितरः अस्मै भृतयजमानस्यार्थाय एतं लोकं इदं दहनस्थानं अक्रन् परित्यज्य नानाभावेन यमस्याज्ञया अन्वकुर्वन् यमोपि अहोभिर्दिवसैः अद्भिः अभ्युक्षणोदकैः अक्तु भीरात्रिभिः व्यक्तं संगतं शुद्धिनिमित्तैः कालोदकादिभिः शोधितमित्यर्थः अवसानं दहन स्थानं अस्मै मृतयजमानस्यार्थाय ददाति दत्तवान् ॥ ९ ॥ अनुस्तरण्यावृक्कौ पार्श्वयोराम्रफलाकृती तावुद्धऋत्य प्रेतस्यहस्तयोर्निदधात्यतिद्रवसार मेया विति द्वाभ्याम् । सूत्रितंच—वृक्कावृद्धऋत्यपाण्योरादध्यादतिद्रवसारमेयौश्वानाविति ।