श्रवणम्

10.14.11
यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प᳚थि॒रक्षी᳚ नृ॒चक्ष᳚सौ ।
ताभ्या᳚मेनं॒ परि᳚ देहि राजन्त्स्व॒स्ति चा᳚स्मा अनमी॒वं च᳚ धेहि ॥
▶ पदपाठः (Word-by-word)
यौ । ते॒ । श्वानौ᳚ । य॒म॒ । र॒क्षि॒तारौ᳚ । च॒तुः॒॑अ॒क्षौ । प॒थि॒रक्षी॒ इति᳚ प॒थि॒॑रक्षी᳚ । नृ॒॑चक्ष᳚सौ ।
ताभ्या᳚म् । ए॒न॒म् । परि᳚ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् हे यम ते त्वदीयौ यौ श्वानौ विद्येते ताभ्यां श्वभ्यां हे राजन् यम एनं प्रेतं परिदेहि रक्षार्थं प्रयच्छ । कीदृशौ श्वानौ रक्षितारौ यमगृहस्य रक्षकौ चतुरक्षौ अक्षि चतुष्टययुक्तौ पथिरक्षि मार्गस्य रक्षकौ नृचक्षसौ मनुष्यैः ख्याप्यमानौ श्रुतिस्मृतिपुराणा- भिज्ञाः पुरुषास्तौ प्रख्यापयन्ति ताभ्यां श्वभ्यां दत्वा अस्मै प्रेताय स्वस्ति च क्षिममपि अनमीवं च रोगाभावमपि धेहि संपादय ॥ ११ ॥