प्रेहि॒ प्रेहि᳚ प॒थिभि᳚ः पू॒र्व्येभि॒र्यत्रा᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ परे॒युः ।
उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प᳚श्यासि॒ वरु᳚णं च दे॒वम् ॥
उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प᳚श्यासि॒ वरु᳚णं च दे॒वम् ॥
पदपाठः (Word-by-word)
प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थि॑भिः᳚ । पू॒र्व्येभिः᳚ । यत्र᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒रा॒॑ई॒युः ।
उ॒भा । राजा᳚ना । स्व॒धया᳚ । मद᳚न्ता । य॒मम् । प॒श्या॒सि॒ । वरु᳚णम् । च॒ । दे॒वम् ॥
उ॒भा । राजा᳚ना । स्व॒धया᳚ । मद᳚न्ता । य॒मम् । प॒श्या॒सि॒ । वरु᳚णम् । च॒ । दे॒वम् ॥
सायणभाष्यम् (Sayana Commentary)
यत्र यस्मिन् स्थाने नोस्माकं पूर्वे पुरातनाः पितरः पितामहादयः परेयुः पूर्व्येभिः पूर्वस्मिन् कालेभवैः अनादिकालप्रवृत्तैरित्यर्थः पथिभिर्मार्गैः हे मत्पितः तत्स्थानं प्रेहिप्रेहि प्रगच्छ । गत्वा च स्वधया अमृतान्नेन मदान्ता मदन्तौ तृप्यन्तौ राजाना राजानौ उभा उभौ यमं देवं द्योतमानं वरुणं पश्यासि पश्य ॥ ७ ॥