य॒माय॒ सोमं᳚ सुनुत य॒माय᳚ जुहुता ह॒विः ।
य॒मं ह᳚ य॒ज्ञो ग᳚च्छत्य॒ग्निदू᳚तो॒ अरं᳚कृतः ॥
य॒मं ह᳚ य॒ज्ञो ग᳚च्छत्य॒ग्निदू᳚तो॒ अरं᳚कृतः ॥
पदपाठः (Word-by-word)
य॒माय᳚ । सोम᳚म् । सु॒नु॒त॒ । य॒माय᳚ । जु॒हु॒त॒ । ह॒विः ।
य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्नि॑दू᳚तः । अर᳚म्॑कृतः ॥
य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्नि॑दू᳚तः । अर᳚म्॑कृतः ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विजोयमाय यमदेवार्थं सोमं सुनुत लतात्मकं सोममभिषुणुत । तथा यमाय यमार्थं हविर्जुहुत अग्निदूतः अस्मिन्यज्ञे सोमोयमग्निदूतः । अग्नेदूर्तत्वमन्यत्राम्नातं—अग्नि र्देवानांदूतआसीदिति । अरंकृतः बहुभिर्द्रव्यैरलंकाररूपैर्युक्तः तादृशोयज्ञोयमं ह यममेव गच्छति ॥ १३ ॥