य॒माय॒ मधु᳚मत्तमं॒ राज्ञे᳚ ह॒व्यं जु᳚होतन ।
इ॒दं नम॒ ऋषि᳚भ्यः पूर्व॒जेभ्य॒ः पूर्वे᳚भ्यः पथि॒कृद्भ्य᳚ः ॥
इ॒दं नम॒ ऋषि᳚भ्यः पूर्व॒जेभ्य॒ः पूर्वे᳚भ्यः पथि॒कृद्भ्य᳚ः ॥
पदपाठः (Word-by-word)
य॒माय᳚ । मधु᳚मत्॑तमम् । राज्ञे᳚ । ह॒व्यम् । जु॒हो॒त॒न॒ ।
इ॒दम् । नमः᳚ । ऋषि᳚॑भ्यः । पू॒र्व॒॑जेभ्यः᳚ । पूर्वे᳚भ्यः । प॒थि॒कृत्॑भ्यः᳚ ॥
इ॒दम् । नमः᳚ । ऋषि᳚॑भ्यः । पू॒र्व॒॑जेभ्यः᳚ । पूर्वे᳚भ्यः । प॒थि॒कृत्॑भ्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋत्विजोयमाय राज्ञे मधुमत्तमं अतिशयेन मधुरं हव्यं पुरोडाशादिकं हविर्जुहोतन जुहुत । पूर्वजेभ्यः सृष्ट्यादावुत्पन्नेभ्यः अतएव पूर्वेभ्यः अस्मत्तः पूर्वभाविभ्यः पथिकृद्भ्यः शोभनमार्गकारिभ्यः ऋषिभ्यः यइदं प्रत्यक्षं यथा भवति तथा नमोस्तु ॥ १५ ॥