श्रवणम्

10.14.5
अङ्गि᳚रोभि॒रा ग᳚हि य॒ज्ञिये᳚भि॒र्यम᳚ वैरू॒पैरि॒ह मा᳚दयस्व ।
विव᳚स्वन्तं हुवे॒ यः पि॒ता ते॒॑स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य᳚ ॥
▶ पदपाठः (Word-by-word)
अङ्गि᳚रः॑भिः । आ । ग॒हि॒ । य॒ज्ञिये᳚भिः । यम᳚ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ ।
विव᳚स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि᳚ । आ । नि॒॑सद्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यम वैरूपैः विविधरूपयुक्तैः वैरूपसामप्रियैर्वा यज्ञियेभिः यज्ञयोग्यैः अंगिरोभिः स हागहि आगच्छ । आगत्य च इहास्मिन् यज्ञे मादयस्व यजमानं हर्षय योविवस्वान् ते तव पितास्ति अस्मिन् यज्ञे तं विवस्वन्तं हुवे आह्वयामि सचास्तीर्णे बर्हिषि आनिषद्यो पविश्वयजमानं हर्षयतु ॥ ५ ॥