श्रवणम्

10.108.3
की॒दृङ्ङिन्द्र᳚ः सरमे॒ का दृ᳚शी॒का यस्ये॒दं दू॒तीरस᳚रः परा॒कात् ।
आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप᳚तिर्नो भवाति ॥
▶ पदपाठः (Word-by-word)
की॒दृङ् । इन्द्रः᳚ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य᳚ । इ॒दम् । दू॒तीः । अस᳚रः । प॒रा॒कात् ।
आ । च॒ । गच्छा᳚त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ᳚ । गवा᳚म् । गो॑प᳚तिः । नः॒ । भ॒वा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेषाम् वाक्यम्। हे सरमे तव स्वामीन्दः कीदृक्। कियत्पराक्रमवान्। कादृशीका। तस्य कीदृशी दृष्टिः। दृष्टिरूपा सेना कियती। यस्य दूतीर्दूती त्वमिदमस्मदीयं स्थानं पराकादतिदुरादसरः आग्मः। इति तामुक्त्वेदानीं ते परस्परमाहुः। एषा सरमा गच्छाच्च। आगच्छतु च । गमेर्लेट्याडागमः। स्वामी भवाति। भवतु। न ह्येकस्या गोः किन्तु बहूनां गवां स्वामी भवतु। वृत्त्यवृत्तिभ्यां स्वामित्वं बाहुल्यं च विवक्ष्यते॥३॥