श्रवणम्

10.108.2 समानपद
इन्द्र᳚स्य दू॒तीरि᳚षि॒ता च᳚रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्व᳚ः ।
अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न᳚ आव॒त्तथा᳚ र॒साया᳚ अतरं॒ पयां᳚सि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती᳚ । प॒ण॒यः॒ । नि॒॑धीन् । वः॒ ।
अ॒ति॒॑स्कदः᳚ । भि॒यसा᳚ । तम् । नः॒ । आ॒व॒त् । तथा᳚ । र॒सायाः᳚ । अ॒त॒र॒म् । पयां᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया तान्सरमा प्रत्युवाच। हे पनय एतन्नामका असुराः इन्द्रस्य दूतीः। सुपां सुलुगिति प्रथमैकवचनस्य सुश्छान्दसः। आहमिषिता तेनैव प्रेषिता सती चरामि। युश्मदीयं स्थानमागच्छामि। किमर्थम् । वो युष्मदीयानुष्मदीये पर्वतेऽधिष्ठापितान्महो महतो निधीन्बृहस्पतेर्गोनिधीनिच्छन्ती कामयमाना सती चरामि। किञ्चातिष्कदः। स्कन्दिर् गतिशोषणयोः। भावे क्विप्। अतिष्कन्दनादतिक्रमणज्जातेन भियासा भयेन तन्नदीजलं नः। पूजायां बहुवचनम्। मामावत्। अरक्षत्। तथा तेन प्रकारेण रसाया नद्याः पयांस्युदकान्यतरम्। तीर्णवत्यस्मि॥२॥