श्रवणम्

10.108.7
अ॒यं नि॒धिः स᳚रमे॒ अद्रि᳚बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु᳚भि॒र्न्यृ᳚ष्टः ।
रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु᳚गो॒पा रेकु᳚ प॒दमल᳚क॒मा ज᳚गन्थ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । नि॒॑धिः । स॒र॒मे॒ । अद्रि᳚॑बुध्नः । गोभिः᳚ । अश्वे᳚भिः । वसु᳚॑भिः । नि॑ऋ᳚ष्टः ।
रक्ष᳚न्ति । तम् । प॒णयः᳚ । ये । सु॒॑गो॒पाः । रेकु᳚ । प॒दम् । अल᳚कम् । आ । ज॒ग॒न्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते पुनराहुः । हे सरमे अयं निधिरस्मदीयः कोशोऽद्रिबुध्नः। बन्धबन्धने। बन्धेर्व्रधिबुधी च। उ. ३-५। इति नप्रत्ययो बुध इत्यादेशः। अद्रिर्बन्धको यस्य तादृशः। तथाहृतैर्गोभीरश्वेभिरश्वैश्च वसुभिरात्मीयैर्धनैश्चन्यृष्तो नितरां प्राप्तो भवति। ऋषी गतौ। क्तप्रत्यये श्वीदितो निष्ठायमितीट् प्रतिषेधः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। सुगोपाः। गुपू रक्शणे। आयप्रत्ययान्तात्क्विप्यातोलोपयलोपौ। सुष्ठु गोपायितारो ये पणयस्तेऽसुरास्तम् निधिं रक्शन्ति। पालयन्ति। रेकु। रेकृ शङ्कायाम्। औणादिक उप्रत्ययः। शङ्कितं गोभिः शब्दायमानं पदमस्माभिः पालितं स्थानमलकं व्यर्थमेवा जगन्थ। आगतवत्यसि। गमेर्लिटि रूपम्॥७॥