ए॒वा च॒ त्वं स᳚रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह᳚सा॒ दैव्ये᳚न ।
स्वसा᳚रं त्वा कृणवै॒ मा पुन᳚र्गा॒ अप᳚ ते॒ गवां᳚ सुभगे भजाम ॥
स्वसा᳚रं त्वा कृणवै॒ मा पुन᳚र्गा॒ अप᳚ ते॒ गवां᳚ सुभगे भजाम ॥
पदपाठः (Word-by-word)
ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒॑ज॒गन्थ᳚ । प्र॑बा᳚धिता । सह᳚सा । दैव्ये᳚न ।
स्वसा᳚रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः᳚ । गाः॒ । अप᳚ । ते॒ । गवा᳚म् । सु॒॑भ॒गे॒ । भ॒जा॒म॒ ॥
स्वसा᳚रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः᳚ । गाः॒ । अप᳚ । ते॒ । गवा᳚म् । सु॒॑भ॒गे॒ । भ॒जा॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
तयैवमुक्ते सति पनयः प्रणयवाक्यमाहुः। हे सरमे त्वं दैव्येन देवसम्बन्धिना सहसा बलेन प्रबाधिता यथा तथा वलपुरं प्राप्य तत्र स्थिता गा दृष्ट्वा पुनरागच्छेति तेन प्रपीडिता त्वमेवं चेदाजगन्थ आगतवत्यसि। च्शब्दश्चेदर्थे। निपातैर्यद्यदिहन्तेति तिङो निघाताभावः। गमेर्लिटि थलि रूपम्। सह सुपेत्यत्र सहेति योगविभागात्समासः। तिङि चोदात्तवतिति गतेर्निघातः। लित्स्वरः। तर्हि त्वा त्वां स्वसारं भगिनीं कृणवै। करवैः। समूहापेक्ष्यैकवचनम्। त्वं तु पुनर्मा गाः। इन्द्रादीन्मा गच्छ। अपि तर्हि हे सुभगे सरमे ते त्वदीयानां गवां समूहं पर्वतादपगमय्य भजाम। त्वं च वयं च विभजा विभागं करवामेत्यर्थः॥९॥