त्वं त्यमि᳚न्द्र॒ सूर्यं᳚ प॒श्चा सन्तं᳚ पु॒रस्कृ᳚धि ।
दे॒वानां᳚ चित्ति॒रो वश᳚म् ॥
दे॒वानां᳚ चित्ति॒रो वश᳚म् ॥
पदपाठः (Word-by-word)
त्वम् । त्यम् । इ॒न्द्र॒ । सूर्य᳚म् । प॒श्चा । सन्त᳚म् । पु॒रः । कृ॒धि॒ ।
दे॒वाना᳚म् । चि॒त् । ति॒रः । वश᳚म् ॥
दे॒वाना᳚म् । चि॒त् । ति॒रः । वश᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं त्यं सूर्यमस्तसमये पश्चा पश्चात्सन्तं भवन्तं पुरः परेद्युरुदयकाले पुरस्तात्कृधि। करोषि। लकारव्यत्ययः। कीदृशम् । देवानां चिद्देवानामपि तिरस्तिरोहितं तैरपि क्व गत इति दुर्विज्ञातं वशं कान्तम्॥४॥