त्वं म॒खस्य॒ दोध᳚त॒ः शिरो॑व᳚ त्व॒चो भ᳚रः ।
अग᳚च्छः सो॒मिनो᳚ गृ॒हम् ॥
अग᳚च्छः सो॒मिनो᳚ गृ॒हम् ॥
पदपाठः (Word-by-word)
त्वम् । म॒खस्य᳚ । दोध᳚तः । शिरः᳚ । अव᳚ । त्व॒चः । भ॒रः॒ ।
अग᳚च्छः । सो॒मिनः᳚ । गृ॒हम् ॥
अग᳚च्छः । सो॒मिनः᳚ । गृ॒हम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं मखस्य यज्ञस्य दोधतः कम्पमानस्य देवेभ्यः पालयमानस्य शिरः प्रवर्ग्यरूपं त्वचस्त्वगुपलक्शिताच्छरीराद्व भरः। अवयुत्यपृथक्कृत्य हृतवानसि। देवेभ्यो निष्क्रान्तस्य पुरुषाकारस्य धन्विनो यज्ञस्य शिर इन्द्रो वम्रिरूपेण ज्याघातनद्वारा पुरा चिच्छेद। तदभिप्रायेणेदमुक्तम्। श्रूयते हि। तस्येन्द्रो वम्रिरूपेण धनुर्ज्यामच्छिनद्रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेश स प्रवर्ग्योऽभवदिति। सत्वं सोमिनः सोमवतो मम ग्रुहमगच्छः। आगच्छः॥२॥