श्रवणम्

10.171.3
त्वं त्यमि᳚न्द्र॒ मर्त्य᳚मास्त्रबु॒ध्नाय᳚ वे॒न्यम् ।
मुहु᳚ः श्रथ्ना मन॒स्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य᳚म् । आ॒स्त्र॒॑बु॒ध्नाय᳚ । वे॒न्यम् ।
मुहुः᳚ । श्र॒थ्नाः॒ । म॒न॒स्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं त्यं तं मर्त्यं मनुष्यं वेन्यं वेनस्य पुत्रं पृथुमास्त्रबुध्नाय। अस्त्रबुध्नो नाम कश्चित्। तस्य पुत्राय मनस्यवे मननीयं स्तोत्रमिच्छते मुहुः शश्वच्छ्रथ्नाः। अहिंसीः। वशमनय इत्यर्थः॥३॥