यदि᳚न्द्र ब्रह्मणस्पते॑भिद्रो॒हं चरा᳚मसि ।
प्रचे᳚ता न आङ्गिर॒सो द्वि᳚ष॒तां पा॒त्वंह᳚सः ॥
प्रचे᳚ता न आङ्गिर॒सो द्वि᳚ष॒तां पा॒त्वंह᳚सः ॥
पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒॑द्रो॒हम् । चरा᳚मसि ।
प्र॑चे᳚ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह᳚सः ॥
प्र॑चे᳚ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र हे ब्रह्मणस्पते युवयोर्विषये यदभिद्रोहमभितो द्रोहं पापं दुःस्वप्नकारनं चरामसि आचरामः कुर्मः तस्मादभिद्रोहादस्मान्रक्शतमिति शेषः। अपि चाङ्गिरसोऽङ्गिरोऽभिः स्तोतृभिः सबान्धवः प्रचेताः प्रकृष्टज्ञानोवरुणश्च द्विषतां द्वेष्टॄणामंहसस्तत्कर्तृकादस्मद्विषयात्पापान्नोऽस्मान्पातु। रक्षतु। यद्वा। विभक्तिव्यत्ययः। आङ्गिरसमङ्गिररोगोत्रं प्रचेतसमृषिं नः। वचनव्यत्ययः। मां द्विषतामंहसः पातु। प्रकृतत्वादिन्द्र इदि गम्यते॥५॥