यदा॒शसा᳚ नि॒ःशसा᳚भि॒शसो᳚पारि॒म जाग्र᳚तो॒ यत्स्व॒पन्त᳚ः ।
अ॒ग्निर्विश्वा॒न्यप᳚ दुष्कृ॒तान्यजु᳚ष्टान्या॒रे अ॒स्मद्द᳚धातु ॥
अ॒ग्निर्विश्वा॒न्यप᳚ दुष्कृ॒तान्यजु᳚ष्टान्या॒रे अ॒स्मद्द᳚धातु ॥
पदपाठः (Word-by-word)
यत् । आ॒॑शसा᳚ । निः॒॑शसा᳚ । अ॒भि॒॑शसा᳚ । उ॒प॒॑आ॒रि॒म । जाग्र᳚तः । यत् । स्व॒पन्तः᳚ ।
अ॒ग्निः । विश्वा᳚नि । अप᳚ । दुः॒॑कृ॒तानि᳚ । अजु᳚ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥
अ॒ग्निः । विश्वा᳚नि । अप᳚ । दुः॒॑कृ॒तानि᳚ । अजु᳚ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
यद्दुष्कृतमाशसाशंसनेनाभिलाषेण जाग्रतो जागरणावस्थायाम् वर्तमाना वयमुपारिम उपगतवन्तः स्म उपगतवन्तः स्म यच्च स्वपन्तः स्वप्नावस्थाम् प्राप्ता उपगतवन्तः स्म। तथा नि सशा निःशंसनेन निर्गताभिलाषेणाभिशसाभिगताभिलाषेण च कारणेनावस्थाद्वये यद्दुष्कृतमुपागच्छेम। तानि विश्वानि सर्वाण्यजुष्टान्यसेव्यान्यप्रियाणि वा दुष्कृतानि दुष्कर्माण्यग्निरस्मदारेऽस्मत्तो दूरदेशेऽप दधातु। अपकृष्यस्थापयतु॥४॥