अजै᳚ष्मा॒द्यास᳚नाम॒ चाभू॒माना᳚गसो व॒यम् ।
जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ᳚च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ᳚च्छतु ॥
जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ᳚च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ᳚च्छतु ॥
पदपाठः (Word-by-word)
अजै᳚ष्म । अ॒द्य । अस᳚नाम । च॒ । अभू᳚म । अना᳚गसः । व॒यम् ।
जा॒ग्र॒त्॑स्व॒प्नः । स॒म्॑क॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वेष्टि᳚ । तम् । ऋ॒च्छ॒तु॒ ॥
जा॒ग्र॒त्॑स्व॒प्नः । स॒म्॑क॒ल्पः । पा॒पः । यम् । द्वि॒ष्मः । तम् । सः । ऋ॒च्छ॒तु॒ । यः । नः॒ । द्वेष्टि᳚ । तम् । ऋ॒च्छ॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
अद्यास्मिन्कालेऽजैष्म। जेतव्यानि सर्वाणि जितवन्तोऽभूम दुःस्वप्नस्य नष्टत्वात्। तदनन्तरमसनाम च सम्भक्तव्यानि च समभजाम। तथा वयमनागसोऽनपराधाश्चाभूम। जाग्रत्स्वप्नावस्थयोः सम्बन्धी पापः पापफलरूपः स सङ्कल्पो दुःस्वप्नाध्यवसायो यं शत्रुं वयं द्विष्मः तमृच्छतु। प्राप्नोतु। यश्च नोऽस्मान्द्वेष्टि तमृच्छतु। प्राप्नोतु॥६॥