श्रवणम्

10.104.5
प्रणी᳚तिभिष्टे हर्यश्व सु॒ष्टोः सु᳚षु॒म्नस्य᳚ पुरु॒रुचो॒ जना᳚सः ।
मंहि᳚ष्ठामू॒तिं वि॒तिरे॒ दधा᳚नाः स्तो॒तार᳚ इन्द्र॒ तव᳚ सू॒नृता᳚भिः ॥
▶ पदपाठः (Word-by-word)
प्रनी᳚ति॑भिः । ते॒ । ह॒रि॒॑अ॒श्व॒ । सु॒॑स्तोः । सु॒सु॒म्नस्य᳚ । पु॒रु॒॑रुचः᳚ । जना᳚सः ।
मंहि᳚ष्ठाम् । ऊ॒तिम् । वि॒॑तिरे᳚ । दधा᳚नाः । स्तो॒तारः᳚ । इ॒न्द्र॒ । तव᳚ । सू॒नृता᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हर्यश्व हरितवर्णाश्वोपेतेन्द्र सुष्टोः सुष्ठु स्तूयमानस्य सुशुम्नस्य सुसुखस्य सुधनस्य वा पुरुरुचो बहुदीप्तेस्ते तव प्रणीतिभिः प्रणयनैर्हनादि प्रदानैर्जनासो जनाः स्तोतारः सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः। एतत्प्रणीतिभिरित्यनेन समुच्चीयते। वितिरेऽन्येभ्योऽर्थिभ्यो वितरणाय मंहिष्ठामतिशयेन मंहनीयां तव सम्बन्धिनीमूतिं रक्शां दधाना आसत इति शेषः॥५॥