श्रवणम्

10.104.10 समानपद
वी॒रेण्य॒ः क्रतु॒रिन्द्र᳚ः सुश॒स्तिरु॒तापि॒ धेना᳚ पुरुहू॒तमी᳚ट्टे ।
आर्द᳚यद्वृ॒त्रमकृ᳚णोदु लो॒कं स᳚सा॒हे श॒क्रः पृत᳚ना अभि॒ष्टिः ॥
▶ पदपाठः (Word-by-word)
वी॒रेण्यः᳚ । क्रतुः᳚ । इन्द्रः᳚ । सु॒॑श॒स्तिः । उ॒त । अपि᳚ । धेना᳚ । पु॒रु॒॑हू॒तम् । ई॒ट्टे॒ ।
आर्द᳚यत् । वृ॒त्रम् । अकृ᳚णोत् । ऊं॒ इति᳚ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत᳚नाः । अ॒भि॒ष्टिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो वीरेण्यो वीरैर्गन्तव्योऽतिशयेन वीरो वा क्रतुः कर्मवान् सुशस्तिः शोभनस्तुतिकः। उतापि च। अपीत्यनर्थकः। अपि च धेना। वाग्नामैतत्। प्रीणयित्री स्तुतिवाक् पुरुहुतमिन्द्रमीट्टे। स्तौति पूजयति वा। यत उक्तलक्षणः अतः स्तौतीत्यर्थः। किञ्चायं वृत्रमावरकमेतन्नामकमसुरमार्दयत्। हतवानित्यर्थः। उ अपि च लोकम्। लोक्यत इति लोकः प्रकाशः। तमकृणॊत्। अकरोत्। आवरकमसुरं हत्वा प्रकाशं कृतवानित्यर्थः। न केवलं तमेकमेव अपि शु शक्र इन्द्रोऽभिष्टिः शत्रूणामभिगन्ता पृतनाः शत्रुसेनाः ससाहे। अभ्यभवत्॥१०॥