श्रवणम्

10.104.3
प्रोग्रां पी॒तिं वृष्ण᳚ इयर्मि स॒त्यां प्र॒यै सु॒तस्य᳚ हर्यश्व॒ तुभ्य᳚म् ।
इन्द्र॒ धेना᳚भिरि॒ह मा᳚दयस्व धी॒भिर्विश्वा᳚भि॒ः शच्या᳚ गृणा॒नः ॥
▶ पदपाठः (Word-by-word)
प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे᳚ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒॑यै । सु॒तस्य᳚ । ह॒रि॒॑अ॒श्व॒ । तुभ्य᳚म् ।
इन्द्र᳚ । धेना᳚भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा᳚भिः । शच्या᳚ । गृ॒णा॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितीये पर्याये ब्राह्मणाच्छंसिनः प्रोग्रामित्येषा याज्या। सूत्रितं च। अश्वावति पथमः प्रग्राम् पीतिं वृष्ण इयर्मि सत्यामिति याज्या। आ. ६-४। इति॥

हे हर्यश्वेन्द्र वृष्णे वर्षकाय तुभ्यमुग्रामुद्गुर्णं सत्यां पीतिं सोमपानम् प्रेयर्मि। प्रेरयामि। किमर्थम्। प्रयै प्रगमनाय। कस्य पितिम् । सुतस्याभिषुतस्य। अतो हे इन्द्र शच्या शक्त्या कर्मना वा युक्तो गृणानः स्तूयमानस्त्वं विश्वाभिः सर्वाभिर्धेनाभिः स्तुतिवाग्भिर्विश्वाभिर्धीभिः सर्वैः कर्मभिश्चेहास्मिन्यागे मादयस्व। तृप्यत। मद तृप्तियोगे। आत्मनेपदम्॥३॥