अ॒पो म॒हीर॒भिश᳚स्तेरमु॒ञ्चो॑जा᳚गरा॒स्वधि᳚ दे॒व एकः᳚ ।
इन्द्र॒ यास्त्वं वृ᳚त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु᳚स्त॒न्वं᳚ पुपुष्याः ॥
इन्द्र॒ यास्त्वं वृ᳚त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु᳚स्त॒न्वं᳚ पुपुष्याः ॥
पदपाठः (Word-by-word)
अ॒पः । म॒हीः । अ॒भि॑श᳚स्तेः । अ॒मु॒ञ्चः॒ । अजा᳚गः । आ॒सु॒ । अधि᳚ । दे॒वः । एकः᳚ ।
इन्द्र᳚ । याः । त्वम् । वृ॒त्र॒॑तूर्ये᳚ । च॒कर्थ᳚ । ताभिः᳚ । वि॒श्व॑आ᳚युः । त॒न्व᳚म् । पु॒पु॒ष्याः॒ ॥
इन्द्र᳚ । याः । त्वम् । वृ॒त्र॒॑तूर्ये᳚ । च॒कर्थ᳚ । ताभिः᳚ । वि॒श्व॑आ᳚युः । त॒न्व᳚म् । पु॒पु॒ष्याः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र महीर्महतीरप उदकान्यभिशस्तेरभिशंसकाद्वृत्रादमुञ्चः। आसु मुक्तास्वप्सु देवस्त्वमेक एक एवासहायः सन्नध्यजागः। अप्रमतो भवसि। यद्व अधीति सप्तम्यर्थानुवादी। हे इन्द्र त्वं या अपो वृत्रतूर्ये व्रुत्रहत्यायां चकर्थ करोषि ताभिरद्भिर्विश्वाभिः सर्वाभिस्त्वं तनुं स्वकीयं शरीरं पुपुष्याः। पोषयेः। पुष पुष्तावित्यस्य व्यत्ययेन श्लुः॥९॥