श्रवणम्

10.104.7
स॒हस्र᳚वाजमभिमाति॒षाहं᳚ सु॒तेर᳚णं म॒घवा᳚नं सुवृ॒क्तिम् ।
उप᳚ भूषन्ति॒ गिरो॒ अप्र᳚तीत॒मिन्द्रं᳚ नम॒स्या ज᳚रि॒तुः प᳚नन्त ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑वाजम् । अ॒भि॒मा॒ति॒॑सह᳚म् । सु॒ते॑र᳚णम् । म॒घ॑वा᳚नम् । सु॒॑वृ॒क्तिम् ।
उप᳚ । भू॒ष॒न्ति॒ । गिरः᳚ । अप्र᳚ति॑इतम् । इन्द्र᳚म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रवाजमपरिमितान्नमपरिमितबलं वाभिमातिषाहमभिमातीनां सर्वतो हिंसकानां शत्रूणामभिभवितारं सुतेरणमभिषुते सोमे रममाणं मघवानं धनवन्तं सुवृक्तिं शोभनस्तुतिकमप्रतितं युद्धेऽनैरप्रतिगतमिन्द्रं गिरः स्तुतिरूपा वाच उप भूशन्ति। अलङ्कुर्वन्ति। तदेवाह। जरितुः स्तोतुर्नमस्याः स्तुतयः पनन्त। स्तुवन्ति॥७॥