ऊ॒ती श᳚चीव॒स्तव᳚ वी॒र्ये᳚ण॒ वयो॒ दधा᳚ना उ॒शिज᳚ ऋत॒ज्ञाः ।
प्र॒जाव᳚दिन्द्र॒ मनु᳚षो दुरो॒णे त॒स्थुर्गृ॒णन्त᳚ः सध॒माद्या᳚सः ॥
प्र॒जाव᳚दिन्द्र॒ मनु᳚षो दुरो॒णे त॒स्थुर्गृ॒णन्त᳚ः सध॒माद्या᳚सः ॥
पदपाठः (Word-by-word)
ऊ॒ती । श॒ची॒॑वः॒ । तव᳚ । वी॒र्ये᳚ण । वयः᳚ । दधा᳚नाः । उ॒शिजः᳚ । ऋ॒त॒॑ज्ञाः ।
प्र॒जा॑व᳚त् । इ॒न्द्र॒ । मनु᳚षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः᳚ । स॒ध॒॑माद्या᳚सः ॥
प्र॒जा॑व᳚त् । इ॒न्द्र॒ । मनु᳚षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः᳚ । स॒ध॒॑माद्या᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
तितीये पर्याये ब्राह्मणाच्छंसिनः शस्त्र ऊती शचीव इत्येषा याज्या ऊती शचीवस्तव वीर्येणेति याज्या। आ. ६-४। इति सुत्रितम्॥
हे शचीवः शक्तिवन्निन्द्र तवोत्यूत्या रक्षणेन तव वीर्येण वयोऽन्नं प्रजावत्प्रजोपेतं दधाना धारयन्त उशिजस्त्वामेव कामयमाना ऋतज्ञा ऋतम् यज्ञमहर्जानन्तः। अङ्गिरसः सत्रमनुतिष्ठन्तः षष्थेऽहनि प्रयोगमूढाः सन्तो नाभानेदिष्ठेन पारं गत यशः अतस्तेषामृतज्ञत्वम् । ईदृशोऽङ्गिरसो मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे ग्रुणन्तस्त्वाम् स्तुवन्तः सधमाद्यासः सह माद्यन्तस्तस्थुः। तिष्थन्ति। मादयतेः क्रुत्यल्युटो बहुलमिति वचनात्कर्तर्यचो यदिति यत्। छान्दसः सदादेशः। अतो वयमपि तिष्ठेमेत्यर्थः॥४॥