नित्य᳚श्चाकन्या॒त्स्वप᳚ति॒र्दमू᳚ना॒ यस्मा᳚ उ दे॒वः स᳚वि॒ता ज॒जान᳚ ।
भगो᳚ वा॒ गोभि᳚रर्य॒मेम᳚नज्या॒त्सो अ᳚स्मै॒ चारु᳚श्छदयदु॒त स्या᳚त् ॥
भगो᳚ वा॒ गोभि᳚रर्य॒मेम᳚नज्या॒त्सो अ᳚स्मै॒ चारु᳚श्छदयदु॒त स्या᳚त् ॥
पदपाठः (Word-by-word)
नित्यः᳚ । चा॒क॒न्या॒त् । स्व॑प᳚तिः । दमू᳚नाः । यस्मै᳚ । ऊं॒ इति᳚ । दे॒वः । स॒वि॒ता । ज॒जान᳚ ।
भगः᳚ । वा॒ । गोभिः᳚ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः᳚ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥
भगः᳚ । वा॒ । गोभिः᳚ । अ॒र्य॒मा । ई॒म् । अ॒न॒ज्या॒त् । सः । अ॒स्मै॒ । चारुः᳚ । छ॒द॒य॒त् । उ॒त । स्या॒त् ॥
सायणभाष्यम् (Sayana Commentary)
नित्यः कल्पावस्थायी प्रजापतिः चाकन्यात् तस्मै दृष्टादृष्टफलं चाकनतु कामयताम् । कीदृशः स्वपतिः स्वीयानां प्रजानां स्वामी धनपतिर्वा दमूनाः दानमनाः । कस्मै कामय- तामिति उच्यते । उ अपिच यस्मै यजमानाय सह्यं सविता सर्वस्य प्रेरकोदेवः जजान जनितवान् दृष्टादृष्टफलं दत्तवानित्यर्थः । वाशब्दः समुच्चये । तथा भगोदेवश्च गोभिरस्मदी याभिः स्तुतिरूपाभिर्वाग्भिः अर्यमादेवश्च ईमीदृग्भूतं दृष्टदृष्टफलं अनज्यात् व्यक्तीकुर्यात् दद्यादित्यर्थः । उतापिच स्यात् अन्योपि योदेवगणोस्ति चारुः रमणीयः सोपिदेवगणः अस्मै यजमानाय मह्यं छदयत् दृष्टदृष्टफलं दातुं कामयतामित्येतदाशास्महे ॥ ४ ॥