श्रवणम्

10.31.9
स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह᳚ वाति॒ भूम᳚ ।
मि॒त्रो यत्र॒ वरु᳚णो अ॒ज्यमा᳚नो॒॑ग्निर्वने॒ न व्यसृ᳚ष्ट॒ शोक᳚म् ॥
▶ पदपाठः (Word-by-word)
स्ते॒गः । न । क्षाम् । अति᳚ । ए॒ति॒ । पृ॒थ्वीम् । मिह᳚म् । न । वातः᳚ । वि । ह॒ । वा॒ति॒ । भूम᳚ ।
मि॒त्रः । यत्र᳚ । वरु᳚णः । अ॒ज्यमा᳚नः । अ॒ग्निः । वने᳚ । न । वि । असृ᳚ष्ट । शोक᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तेगः स्त्यै ष्ट्यै शब्दसंघातयोः रश्मिसंघातीआदित्यः पृथ्वीं विस्तीर्णां क्षां भूमिं तेजसा नात्येति नातिगच्छति मर्यादया तिष्ठतीत्येवमादित्यः स्तूयते वातोवायुरपि खलु भूम भूमिं मिहं वृष्टिं न विवाति समर्थोपि सन् विविधं न गमयति भूमिं प्रति सावशे षमेव वर्षतीति वातः स्तूयते यत्र यस्मिन्प्रजापतौ मित्रोदेवः अज्यमानोव्यज्यमानः व्य- क्तीभवन्नुत्पाद्यमानइत्यर्थः शोकं स्वदीप्तिं व्यसृष्ट विसृजति सर्वतोविक्षिपति । तथा वरुण- श्च व्यक्तीभवन्स्वदीप्तिं विक्षिपति । तत्र दृष्टान्तः—अग्निर्दवानलः वने न यथः वृक्षसंघाते स्वदीप्तिं सर्वतोविसृजति तद्वत् तादृशं प्रजापतिं स्तौमीति शेषः ॥ ९ ॥