आ नो᳚ दे॒वाना॒मुप᳚ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव᳚से॒ यज᳚त्रः ।
तेभि᳚र्व॒यं सु᳚ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ॥
तेभि᳚र्व॒यं सु᳚ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ॥
पदपाठः (Word-by-word)
आ । नः॒ । दे॒वाना᳚म् । उप᳚ । वे॒तु॒ । शंसः᳚ । विश्वे᳚भिः । तु॒रैः । अव᳚से । यज᳚त्रः ।
तेभिः᳚ । व॒यम् । सु॒॑स॒खायः᳚ । भ॒वे॒म॒ । तर᳚न्तः । विश्वा᳚ । दुः॒॑इ॒ता । स्या॒म॒ ॥
तेभिः᳚ । व॒यम् । सु॒॑स॒खायः᳚ । भ॒वे॒म॒ । तर᳚न्तः । विश्वा᳚ । दुः॒॑इ॒ता । स्या॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवानां स्तोतॄणां नोस्माकं शंसः स्तोतव्यः यजत्रोयष्टव्यः एवंभूतः इन्द्रः तुरैः त्वरण- शीलैः विश्वेभिः सर्वैर्मरुद्भिः सह अवसे अस्मद्यज्ञरक्षणार्थं आउपवेतु उपागच्छतु । वयमपि तेभिस्तैः सह सुसखायः शोभनसखायः स्याम भवेम । किञ्च विश्वा दुरिता विश्वानि दु- रितानि पापानि तरन्तः स्याम ॥ १ ॥