श्रवणम्

10.31.11
उ॒त कण्वं᳚ नृ॒षदः᳚ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद᳚त्त वा॒जी ।
प्र कृ॒ष्णाय॒ रुश᳚दपिन्व॒तोध᳚रृ॒तमत्र॒ नकि᳚रस्मा अपीपेत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । कण्व᳚म् । नृ॒॑सदः᳚ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन᳚म् । आ । अ॒द॒त्त॒ । वा॒जी ।
प्र । कृ॒ष्णाय᳚ । रुश᳚त् । अ॒पि॒न्व॒त॒ । ऊधः᳚ । ऋ॒तम् । अत्र᳚ । नकिः᳚ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच कण्वमृषिं नृषदः पुत्रमाहुः वेदवादिनोवदन्ति । उतापिच वाजी हविर्लक्षणा न्नवान्कण्वः श्यामः श्यामवर्णः सन्नस्मादग्नेः सकाशात् धनमादत्त अगृह्णात् । कृष्णाय श्या मवर्णाय नार्षदाय कण्वाय अग्निरूधः रुशत् रोचमानं रूपं प्रापिन्वत प्रासिञ्चत् । अत्रेत्थं अग्निव्यतिरिक्तः कश्चिदपि देवः अस्मै कण्वाय ऋतं यज्ञं नकिरपीपेत् नावर्धत । युवं श्या वायरुशती मदत्तमित्युक्तं ॥ ११ ॥

प्रसुग्मन्तेति नवर्चं तृतीयं सूक्तं आदितः पञ्चजगत्यः चतस्रस्त्रिष्टुभः पूर्वदृषिदेवते । तथाचानुक्रान्तम्—प्रसुग्मन्तानव पञ्चाद्याजगत्यइति । गतोविनियोगः ।