श्रवणम्

10.31.2
परि᳚ चि॒न्मर्तो॒ द्रवि᳚णं ममन्यादृ॒तस्य᳚ प॒था नम॒सा वि᳚वासेत् ।
उ॒त स्वेन॒ क्रतु᳚ना॒ सं व᳚देत॒ श्रेयां᳚सं॒ दक्षं॒ मन᳚सा जगृभ्यात् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । चि॒त् । मर्तः᳚ । द्रवि᳚णम् । म॒म॒न्या॒त् । ऋ॒तस्य᳚ । प॒था । नम᳚सा । आ । वि॒वा॒से॒त् ।
उ॒त । स्वेन᳚ । क्रतु᳚ना । सम् । व॒दे॒त॒ । श्रेयां᳚सम् । दक्ष᳚म् । मन᳚सा । ज॒गृ॒भ्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्तोमनुष्योयजमानः परिचित्सर्वतः द्रविणं विश्वेषां देवानां यागार्थं धनं ममन्यात् म- न्यात् मन्यतिः कान्तिकर्मा कामयेत लब्धुमिच्छेत् धनं लब्ध्वा च ऋतस्य यज्ञस्य पथा मार्गेण नमसा हविराख्येनान्नेन आविवासेत् परिचरेत् । उतापिच स्वेनात्मीयेन क्रतुनां प्र- ज्ञानेन मनसेत्यर्थः संवदेत संवादोत्र सम्यग्ध्यानमुच्यते हविर्गृहीत्वा वषट्करिष्यन् विश्वा न्देवान्मनसा ध्यायेदित्यर्थः । विश्वेषां देवानां यागानन्तरं च तत्प्रसादात् श्रेयांसमतिशयेन प्रशस्यमात्मानं दक्षं प्रवृद्धं सर्वव्यापिनं मनसा ध्यानसाधनेनान्तःकरणेन जगृभ्यात् गृह्णी- यात् ॥ २ ॥