नैताव᳚दे॒ना प॒रो अ॒न्यद᳚स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि᳚भर्ति ।
त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ॥
त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ॥
पदपाठः (Word-by-word)
न । ए॒ताव᳚त् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । उ॒क्षा । सः । द्यावा᳚पृथि॒वी इति᳚ । बि॒भ॒र्ति॒ ।
त्वच᳚म् । प॒वित्र᳚म् । कृ॒णु॒त॒ । स्व॒धा॑वा᳚न् । यत् । ई॒म् । सूर्य᳚म् । न । ह॒रितः᳚ । वह᳚न्ति ॥
त्वच᳚म् । प॒वित्र᳚म् । कृ॒णु॒त॒ । स्व॒धा॑वा᳚न् । यत् । ई॒म् । सूर्य᳚म् । न । ह॒रितः᳚ । वह᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
द्यावापृथिव्योः निर्माणरूपं एतावद्देवजातं सामर्थ्येन युक्तं इति न अपितु एना एतेभ्यो देवेभ्यः परः उत्कृष्टः अन्यदन्योहिरण्यगर्भोस्ति उक्षा सेक्ता प्रजानां स्रष्टेत्यर्थः हिरण्यगर्भः परमसूक्ष्मोवायुरूपोलिङ्गात्मापः प्रविश्य द्यावापृथिवी द्यावापृथिव्यौ बिभर्ति धारयति । किञ्च स्वधावान् बलवान् अन्नवान्वा सहिरण्यगर्भः पवित्रं पवित्रमयं त्वचं आत्मीयं शरी रं दीप्तं मन्त्रं वा कृणुत करोति । कदेति उच्यते—यद्यदा ईमिमां त्वचं हरितोश्वाः सूर्यं न वहन्ति न प्रापयन्ति तदेति सृष्टेः प्रागित्यर्थः ॥ ८ ॥