श्रवणम्

10.148.3 समानपद
अ॒र्यो वा॒ गिरो᳚ अ॒भ्य᳚र्च वि॒द्वानृषी᳚णां॒ विप्र᳚ः सुम॒तिं च᳚का॒नः ।
ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ॥
▶ पदपाठः (Word-by-word)
अ॒र्यः । वा॒ । गिरः᳚ । अ॒भि । अ॒र्च॒ । वि॒द्वान् । ऋषी᳚णाम् । विप्रः᳚ । सु॒॑म॒तिम् । च॒का॒नः ।
ते । स्या॒म॒ । ये । र॒णय᳚न्त । सोमैः᳚ । ए॒ना । उ॒त । तुभ्य᳚म् । र॒थ॒॑ओ॒ळ्ह॒ । भ॒क्षैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रो मेधाव्यृषीणां मन्त्रदर्शिनां सुमतिं सुष्तुतिं चकानः कामयमानो विद्वाञ्जानन्नर्यो वा स्वामी च भवन् हे इन्द्र ईदृशस्त्वं गिरः स्तोतॄन् स्तुतीर्वाभ्यर्च। सम्यक्स्तुतमित्यभिपूजय। अपि च ते वयं स्याम भवेम ये सोमैस्त्वां रणयन्त रमयन्ति। उतापि च हे रथोळ्ह रथैरभ्युह्यमान। आ ऊढ ओढः। रथेन ओढो रथोढः। ओमाङोश्च। पा. ६-१-९५। इति पररूपम्। ईदृशेन्द्र भक्षैर्भक्षणीयैश्वरुपुरोडाशादिभिः सार्धमेनेमानि स्तोत्राणि तुभ्यं त्वदर्थं क्रियन्ते॥३॥