श्रवणम्

10.148.4 समानपद
इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः᳚ ।
तेभि᳚र्भव॒ सक्र᳚तु॒र्येषु᳚ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ॥
▶ पदपाठः (Word-by-word)
इ॒मा । ब्रह्म᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । शं॒सि॒ । दाः । नृ॑भ्यः᳚ । नृ॒णाम् । शू॒र॒ । शवः᳚ ।
तेभिः᳚ । भ॒व॒ । स॑क्र᳚तुः । येषु᳚ । चा॒कन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । उ॒त । स्तीन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वदर्थमिमेमानि पुरोवर्तीनि ब्रह्म ब्रह्माणि परिवृढानि स्तोत्राणि शंसि। अशंसिषत। शस्यन्ते। शंसेश्छान्दसे कर्मणि लुङि व्यत्ययेनैकवचनम्। हे शूर शौर्यवन्निन्द्र त्वं नृणां मनुश्याणां मध्ये नृभ्यः स्तुत्यादेर्नेतृभ्यः शवोबलं दाः। देहि। अपि च तेभिस्तैः सक्रतुः समानकर्मा समानप्रज्ञो वा भव येषु स्तोतृषु चाकन् हविरादि कामयसे। कन दीप्तिकान्तिगतिषु। अस्माद्यङ्लुगन्ताच्छान्दसे लङि सिपि रूपमेतत्। कमेर्वा पूर्ववत्। सिपि मो नो धातोरिति नत्वम्। उतापि च गृणतः स्तोतॄंस्त्रायस्व। पालय। उतापि च स्तीन्। स्त्यायतेरेतद्रूपम्। सङ्घीभूय स्थितान्यजमानानपि त्रायस्व॥४॥