श्रवणम्

10.4.7
ब्रह्म᳚ च ते जातवेदो॒ नम᳚श्चे॒यं च॒ गीः सद॒मिद्वर्ध᳚नी भूत् ।
रक्षा᳚ णो अग्ने॒ तन᳚यानि तो॒का रक्षो॒त न᳚स्त॒न्वो॒३॒᳚ अप्र᳚युच्छन् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚ । च॒ । ते॒ । जा॒त॒॑वे॒दः॒ । नमः᳚ । च॒ । इ॒यम् । च॒ । गीः । सद᳚म् । इत् । वर्ध᳚नी । भू॒त् ।
रक्ष᳚ । नः॒ । अ॒ग्ने॒ । तन᳚यानि । तो॒का । रक्ष᳚ । उ॒त । नः॒ । त॒न्वः᳚ । अप्र᳚॑युच्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः जातप्रज्ञाग्ने ते त्वदर्थं ब्रह्मास्माभिर्दीयमानं हवीरूपमद्भुतमन्नं वर्धनीभूत् भवतु । तथा नमोनमस्कारश्च । किंच इयमिदानींक्रियमाणा एषा स्तुतिः सदमित् सदैव वर्धयित्री भूत् भवतु । तस्मात् हे अग्ने नोस्माकं तनयानि पुत्रान् तोकापौत्रांश्च रक्ष पालय । उतापिच अप्रयुच्छन् अप्रमाद्यंस्त्वं नोस्माकं तन्वोंगानि रक्ष ॥ ७ ॥

एकः समुद्रइति सप्तर्चं पञ्चमं सूक्तं ऋष्याद्याः पूर्ववत् विनियोगश्च एकइत्यनुक्रान्तम् ।