प्र ते᳚ यक्षि॒ प्र त᳚ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु ।
धन्व᳚न्निव प्र॒पा अ᳚सि॒ त्वम᳚ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ॥
धन्व᳚न्निव प्र॒पा अ᳚सि॒ त्वम᳚ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ॥
पदपाठः (Word-by-word)
प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म᳚ । भुवः᳚ । यथा᳚ । वन्द्यः᳚ । नः॒ । हवे᳚षु ।
धन्व᳚न्॑इव । प्र॒॑पा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे᳚ । पू॒रवे᳚ । प्र॒त्न॒ । रा॒ज॒न् ॥
धन्व᳚न्॑इव । प्र॒॑पा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे᳚ । पू॒रवे᳚ । प्र॒त्न॒ । रा॒ज॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने ते तुभ्यं हविः प्रयक्षि प्रयच्छामि यजिर्दानार्थः । तथा मन्म मननीयां स्तुतिं हे त्वदर्थं प्रेयर्मि प्रेरयामि । प्रोच्चारयामि वंद्यः सर्वैर्वंदनीयस्त्वं नोस्मदीयेषु हवेषु देवा- ह्वानेषु यथा त्वं सन्निहितोभुवोभवसि तथा हविः प्रयच्छामि स्तौमिच । हे प्रत्न पुराण राजन् सर्वस्य जगतः स्वामिन् हे अग्ने सत्वं इयक्षवे यष्टुमिच्छवे पूरवे पूरुरिति मनुष्य- नाम मनुष्याय यजमानाय यद्वा पूरवे हविर्भिर्देवान् पूरयित्रे जनाय धन्वन् इव प्रपाअ- सि यथा । धन्वन् धन्वनि मरौ निरुदकप्रदेशे प्रपा प्रपिबंत्यत्रेति प्रपा सा यथा उदक- प्रदानेन जनेभ्यः सुखदाभवति एवं त्वं धनदानेन तस्मै सुखदाता भवसि ॥ १ ॥