श्रवणम्

10.4.3 समानपद
शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि᳚भर्ति सचन॒स्यमा᳚ना ।
धनो॒रधि᳚ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव᳚सृष्टः ॥
▶ पदपाठः (Word-by-word)
शिशु᳚म् । न । त्वा॒ । जेन्य᳚म् । व॒र्धय᳚न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा᳚ना ।
धनोः᳚ । अधि᳚ । प्र॒॑वता᳚ । या॒सि॒ । हर्य᳚म् । जिगी᳚षसे । प॒शुः॑इ᳚व । अव᳚॑सृष्टः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जेन्यं जयशीलं त्वा त्वां शिशुंन पुत्रमिव वर्धयन्ती पोषयन्ती माता पृथिवी सचनस्यमाना संपर्कमिच्छन्ती सती बिभर्ति धारयति । सत्वं हर्यन् कामयमानः तस्मिन् लोके धनोरधि अधिः सप्तम्यर्थद्योतकः धनोः अन्तरिक्षात् प्रवता प्रवणेन मार्गेण यासि यज्ञं प्रत्यागच्छसि । किंच त्वं अवसृष्टो यष्टृभिः हविरादाय जिगीषसे देवान् प्रतिगन्तु- मिच्छसि । कथमिव पशुरिव यथा विमुक्तः पशुः गोष्ठं प्रत्यागच्छति तद्वत् ॥ ३ ॥