श्रवणम्

10.4.2
यं त्वा॒ जना᳚सो अ॒भि सं॒चर᳚न्ति॒ गाव᳚ उ॒ष्णमि᳚व व्र॒जं य᳚विष्ठ ।
दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हा{4}श्च᳚रसि रोच॒नेन᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । त्वा॒ । जना᳚सः । अ॒भि । स॒म्॑चर᳚न्ति । गावः᳚ । उ॒ष्णम्॑इ᳚व । व्र॒जम् । य॒वि॒ष्ठ॒ ।
दू॒तः । दे॒वाना᳚म् । अ॒सि॒ । मर्त्या᳚नाम् । अ॒न्तः । म॒हान् । च॒र॒सि॒ । रो॒च॒नेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ युवतमाग्ने यं त्वा त्वां जनासोजनाः यजमानाः फलप्राप्त्यर्थं अभिसंचरन्ति अभितः परिचरन्ति सेवन्ते । तत्र दृष्टान्तः—गावउष्णमिव यथागावः शीतार्ताउष्णं शीत- जनितदुःखापनोदनार्थं उष्णं व्रजं गोष्ठमभिगच्छंति । सत्वं देवानामिन्द्रादीनां मर्त्यानां मनु- ष्याणां च दूतोसि हविः प्रापणद्वारा । ततोमहांस्त्वं अन्तः द्यावापृथिव्योर्मध्ये हवींष्या- दाय रोचनेनांतरिक्षेण लोकेन चरसि गच्छसि तं त्वां स्तुमइतिशेषः ॥ २ ॥