श्रवणम्

10.57.6
व॒यं सो᳚म व्र॒ते तव॒ मन᳚स्त॒नूषु॒ बिभ्र᳚तः ।
प्र॒जाव᳚न्तः सचेमहि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । सो॒म॒ । व्र॒ते । तव᳚ । मनः᳚ । त॒नूषु᳚ । बिभ्र᳚तः ।
प्र॒जा॑व᳚न्तः । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देव वयं बन्ध्वादयस्तव व्रते त्वदीये कर्मणि। व्रतमिति कर्मनाम। तव तनूषु तदीयेष्वङ्गेषु च मनो विभ्रतस्तात्पर्ययुक्तां बुद्धिं धारयन्तः। प्रजावन्तः प्रजाभिः पुत्रपौत्राभिर्युक्ताः सचेमहि। सङ्गच्छेमहि। जीवं व्रातं चेति शेषः॥६॥