यो य॒ज्ञस्य᳚ प्र॒साध᳚न॒स्तन्तु᳚र्दे॒वेष्वात᳚तः ।
तमाहु᳚तं नशीमहि ॥
तमाहु᳚तं नशीमहि ॥
पदपाठः (Word-by-word)
यः । य॒ज्ञस्य᳚ । प्र॒॑साध᳚नः । तन्तुः᳚ । दे॒वेषु᳚ । आ॑त᳚तः ।
तम् । आ॑हु᳚तम् । न॒शी॒म॒हि॒ ॥
तम् । आ॑हु᳚तम् । न॒शी॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
योऽयमग्न्याख्यस्तन्तुराहवनीयादिरूपेण विस्तृतो यज्ञतो यज्ञस्य प्रसाधनः प्रकर्षॆण साधयिता दैवैः स्तोतृभिर्यत्विग्भिर्विस्तारितो वर्तते वेद्यां तमाहुतं सर्वतो हूयमानं नशीमहि। प्राप्नुयाम। नशतिर्व्याप्तिकर्मा॥२॥