आ त᳚ एतु॒ मन॒ः पुन॒ः क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ ।
ज्योक्च॒ सूर्यं᳚ दृ॒शे ॥
ज्योक्च॒ सूर्यं᳚ दृ॒शे ॥
पदपाठः (Word-by-word)
आ । ते॒ । ए॒तु॒ । मनः᳚ । पुन॒रिति᳚ । क्रत्वे᳚ । दक्षा᳚य । जी॒वसे᳚ ।
ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥
ज्योक् । च॒ । सूर्य᳚म् । दृ॒शे ॥
सायणभाष्यम् (Sayana Commentary)
हे सम्बन्धो ते मनः पुनरैतु। अभिचरतः सकाशात्पुनरागच्छतु। किमर्थमिति उच्यते। क्रत्वे कर्मणे लौकिकवैदिकविषयाय दक्शाय बलाय च। यद्वा। क्रत्वेऽपानाय दक्षाय प्राणाय। प्राणो वै दक्षोऽपानः क्रतुरिति हि श्रुतिः। जीवसे जीवनाय च। ज्योक्च चिरकालं सूर्यं दृशे। सूर्यं द्रष्टुम् । अत्यन्तं चिरजीवनायेत्यर्थः॥४॥