श्रवणम्

10.123.5
अ॒प्स॒रा जा॒रमु᳚पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् ।
चर᳚त्प्रि॒यस्य॒ योनि᳚षु प्रि॒यः सन्त्सीद᳚त्प॒क्षे हि᳚र॒ण्यये॒ स वे॒नः ॥
▶ पदपाठः (Word-by-word)
अ॒प्स॒राः । जा॒रम् । उ॒प॒॑सि॒ष्मि॒या॒णा । योषा᳚ । बि॒भ॒र्ति॒ । प॒र॒मे । वि॑ओ᳚मन् ।
चर᳚त् । प्रि॒यस्य᳚ । योनि᳚षु । प्रि॒यः । सन् । सीद᳚त् । प॒क्षे । हि॒र॒ण्यये᳚ । सः । वे॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्सरा अपां सारयित्र्यप्सु क्रीडार्थं सरन्ती वोपसिष्मियाणा कान्तसमीपमुपगत्येषद्धसन्ती। स्मिङ् ईषद्धसने। छान्दसो लिट्। तस्य लिटः कानज्वेति कानच्। ईदृशी योषा स्त्रीविद्युद्रूपा जारमपां जारयितारम्। यद्वा। जार उपपतिः। स इव प्रियम् । इमं वेनं परम उत्कृष्टे व्योमन् व्योमन्यन्तरिक्षे बिभर्ति। पोषयति। धारयति वा। यथा काचिद्रूपवती योषिज्जारमुपगम्येषद्धसन्ती तं निर्जने स्थले पुष्णाति तद्वदनेन वेनेन विद्युद्रमत इत्यर्थः। प्रियस्यास्य वेनस्य योनिषु स्थानेषु चरत्। विद्युद्रूपा योषिच्चरति गच्छति। अभिसारिकावृत्त्या स्वयमेव गच्छति। स च वेनः प्रियोऽस्या अनुकूलतमः सन् हिरण्यये हिरण्मये हिरण्मयवद्भास्वर्वे हितरमणीयरूपे वा पक्ष आत्मनः पक्षभूते मेघे सीदत्। सीदति। तया सहोपविशति॥५॥