श्रवणम्

10.123.3
स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य᳚ मा॒तर॒ः सनी᳚ळाः ।
ऋ॒तस्य॒ साना॒वधि᳚ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚ अ॒मृत᳚स्य॒ वाणी᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । पू॒र्वीः । अ॒भि । वा॒व॒शा॒नाः । तिष्ठ᳚न् । व॒त्सस्य᳚ । मा॒तरः᳚ । स॑नी᳚ळाः ।
ऋ॒तस्य᳚ । सानौ᳚ । अधि᳚ । च॒क्र॒मा॒णाः । रि॒हन्ति᳚ । मध्वः᳚ । अ॒मृत᳚स्य । वाणीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वीर्बह्व्यः समानम् वेनस्यात्मनश्च साधारणम् स्थानं प्राप्याभि वावशाना अभितः शब्दायमानाः। यद्वा। तमेव वेनमभिकामयमानाः। वत्सस्य वत्सस्थानीयस्य वैद्युताग्नेर्मातरो मातृभूताः सनीळाः समाननिलयाः एवं विधा आन्तरिक्ष्या आपस्तिष्ठन्। तिष्ठन्ति। अपि चर्तस्योदकस्य सानावधि सानौ समुच्छ्रितेऽन्तरिक्षस्थाने चक्रमाणाः प्रवर्तमाना मध्वो मधुरस्यामृतस्योदकस्य वाणीर्वाण्यः शब्दारिहन्ति। इमं वेनमर्चन्ति। अलङ्ग्कुर्वन्तीत्यर्थः॥३॥