यो अद᳚धा॒ज्ज्योति᳚षि॒ ज्योति᳚र॒न्तर्यो असृ᳚ज॒न्मधु᳚ना॒ सं मधू᳚नि ।
अध᳚ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म᳚ ब्रह्म॒कृतो᳚ बृ॒हदु᳚क्थादवाचि ॥
अध᳚ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म᳚ ब्रह्म॒कृतो᳚ बृ॒हदु᳚क्थादवाचि ॥
पदपाठः (Word-by-word)
यः । अद᳚धात् । ज्योति᳚षि । ज्योतिः᳚ । अ॒न्तः । यः । असृ᳚जत् । मधु᳚ना । सम् । मधू᳚नि ।
अध᳚ । प्रि॒यम् । शू॒षम् । इन्द्रा᳚य । मन्म᳚ । ब्र॒ह्म॒॑कृतः᳚ । बृ॒हत्॑उ᳚क्थात् । अ॒वा॒चि॒ ॥
अध᳚ । प्रि॒यम् । शू॒षम् । इन्द्रा᳚य । मन्म᳚ । ब्र॒ह्म॒॑कृतः᳚ । बृ॒हत्॑उ᳚क्थात् । अ॒वा॒चि॒ ॥
सायणभाष्यम् (Sayana Commentary)
य इन्द्रो ज्योतिषि द्योतमान आदित्यादिके तेजस्यन्तर्ज्योतिस्तेजोऽदधात् धारितवान्। यदादित्याग्न्यादिषु तेजोऽस्ति तदिन्द्रकृतमित्यर्थः। यश्च मधुना मधुरेण रसेन मधूनि सोमादिमधुद्रव्याणि समसृजत् समयोजयत्। यद्वा। मधुना। अत्र मधुशब्देन सर्वैः सेव्यमान आदित्य उच्यते। तेन सह मधून्युदकानि समसृजत्। अध सम्प्रति तस्मा इन्द्राय प्रियं प्रीतिजनकं शूषं बलं शत्रूणां शोषकत्वाद्बलकरं मन्म मननीयं स्तोत्रं ब्रह्मकैतो मन्त्रकृतो बृहदुक्थात् प्रभूतशस्त्रयुक्तादेतन्नामकादृषेर्मत्तोऽवाचि। उक्तमभूत्॥६॥