क उ॒ नु ते᳚ महि॒मनः᳚ समस्या॒स्मत्पूर्व॒ ऋष॒यो॑न्त᳚मापुः ।
यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज᳚नयथास्त॒न्व१॒᳚ः स्वाया᳚ः ॥
यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज᳚नयथास्त॒न्व१॒᳚ः स्वाया᳚ः ॥
पदपाठः (Word-by-word)
के । ऊं॒ इति᳚ । नु । ते॒ । म॒हि॒मनः᳚ । स॒म॒स्य॒ । अ॒स्मत् । पूर्वे᳚ । ऋष᳚यः । अन्त᳚म् । आ॒पुः॒ ।
यत् । मा॒तर᳚म् । च॒ । पि॒तर᳚म् । च॒ । सा॒कम् । अज᳚नयथाः । त॒न्वः᳚ । स्वायाः᳚ ॥
यत् । मा॒तर᳚म् । च॒ । पि॒तर᳚म् । च॒ । सा॒कम् । अज᳚नयथाः । त॒न्वः᳚ । स्वायाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तव महिमनो महिम्नः समस्य सर्वस्याप्यन्तं पारमस्मदस्मत्तः पूर्व ऋषयः क आपुः। प्राप्नुवन्। न कोऽपीत्यर्थः। यद्यपि महत्त्वं प्रख्यापयन्ति तथापि न कात्स्न्येनेति। तत्र कारणमाह। यद्यस्मान्मातरं पितरं च। द्यौः पिता पृथिवी मातेति हि श्रुतम् । अतो द्यावापृथिव्यावित्यर्थः। ते उभे अपि साकं सहैव स्वायास्त्वन्वः स्वकीयाच्छरीरादजनयथाः। उद्पादयः। अतो नापुरिति सम्बन्धः॥३॥