श्रवणम्

10.54.5
त्वं विश्वा᳚ दधिषे॒ केव᳚लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू᳚नि ।
काम॒मिन्मे᳚ मघव॒न्मा वि ता᳚री॒स्त्वमा᳚ज्ञा॒ता त्वमि᳚न्द्रासि दा॒ता ॥
▶ पदपाठः (Word-by-word)
त्वम् । विश्वा᳚ । द॒धि॒षे॒ । केव᳚लानि । यानि᳚ । आ॒विः । या । च॒ । गुहा᳚ । वसू᳚नि ।
काम᳚म् । इत् । मे॒ । म॒घ॒॑व॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒॑ज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं विश्वा सर्वाणि केवलान्यन्येशामसाधारनानि वसूनि धनानि दधिषे। धारयसि। विश्वानीत्युक्तं कथं विश्वत्वमित्यत आह। यान्याविराविर्भुतानि सर्वैः प्रसिद्धानि वसूनि वासयोग्यानि धनानि सन्ति या च गुहा गुहायां निगूधे प्रदेशे वर्तमानानि वसूनि सन्ति तानि विश्वानि दधिष इति। यस्मादेवं तस्मान्मे मम कामं काङ्क्षितं हे मघवन् धनवन्निन्द्र मा वि तारीः। मा हिंसीः। इदिति पादपूरणः। वर्धयेति शेषः। हे इन्द्र त्वमाज्ञातासि प्रापयितास्यभिलषितं धनम्। तथा हे इन्द्र त्वं दातासि॥५॥