च॒त्वारि᳚ ते असु॒र्या᳚णि॒ नामादा᳚भ्यानि महि॒षस्य᳚ सन्ति ।
त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभि॒ः कर्मा᳚णि मघवञ्च॒कर्थ᳚ ॥
त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभि॒ः कर्मा᳚णि मघवञ्च॒कर्थ᳚ ॥
पदपाठः (Word-by-word)
च॒त्वारि᳚ । ते॒ । अ॒सु॒र्या᳚णि । नाम᳚ । अदा᳚भ्यानि । म॒हि॒षस्य᳚ । स॒न्ति॒ ।
त्वम् । अ॒ङ्ग । तानि᳚ । विश्वा᳚नि । वि॒त्से॒ । येभिः᳚ । कर्मा᳚णि । म॒घ॒॑व॒न् । च॒कर्थ᳚ ॥
त्वम् । अ॒ङ्ग । तानि᳚ । विश्वा᳚नि । वि॒त्से॒ । येभिः᳚ । कर्मा᳚णि । म॒घ॒॑व॒न् । च॒कर्थ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र महिषस्य महतः पूज्यस्य ते तव चत्वार्यसुर्याण्यसुरविघातीन्यदाभ्यान्यन्यैरहिंस्यान्युत्तरसुक्त उपान्त्रवर्जिते दूरे तन्नामेत्यादिषु प्रतिपादितानि यानि नाम नामकानि शरीराणि सन्ति अङ्ग सखे त्वं तानि विश्वानि सर्वाणि वित्से। अदाभ्यान्यहिंस्यानि वेत्सि। जानासि। येभिर्यैनामभिः कर्माणि वृत्रवधादिरूपाणि चकर्थ कुरुषे हे मघवन् तानि वेत्सीति॥४॥