यदच᳚रस्त॒न्वा᳚ वावृधा॒नो बला᳚नीन्द्र प्रब्रुवा॒णो जने᳚षु ।
मा॒येत्सा ते॒ यानि᳚ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि᳚वित्से ॥
मा॒येत्सा ते॒ यानि᳚ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि᳚वित्से ॥
पदपाठः (Word-by-word)
यत् । अच᳚रः । त॒न्वा᳚ । व॒वृ॒धा॒नः । बला᳚नि । इ॒न्द्र॒ । प्र॒॑ब्रु॒वा॒णः । जने᳚षु ।
मा॒या । इत् । सा । ते॒ । यानि᳚ । यु॒द्धानि᳚ । आ॒हुः । न । अ॒द्य । शत्रु᳚म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥
मा॒या । इत् । सा । ते॒ । यानि᳚ । यु॒द्धानि᳚ । आ॒हुः । न । अ॒द्य । शत्रु᳚म् । न॒नु । पु॒रा । वि॒वि॒त्से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र तन्वा शरीरेण स्तोत्रेण वा वावृधानो वर्धमानो जनेषु प्राणिषु बलानि प्रब्रुवाणो वृत्रवधादिरूपाणि सामर्थ्यानि प्रकर्षेण कथयन्नचर इति यत्सञ्चारं कृतवानिति यदस्ति ते तव सा गतिर्मायेन्मायैव। म्रुषेयर्थः। किञ्च यानि युद्धानि शत्रुविषयाण्याहुः ब्रुवते पुराविद ऋषयः तान्यपि मायैव। कुत इति आह। अद्येदानीं शत्रुं हन्तव्यं न विवित्से। न लभसे। अद्य मा भुत् पूर्वं हतवानस्मीति यद्बृषे तदपि नेत्याह। नन्विति प्रश्ने। किं पुरा शत्रुमलभथाः। तदपि नेत्यर्थः॥२॥